||Devi Mahatmyam||

|| Devi Sapta Sati||

|| Chaoter 7||


||om tat sat||

Select text in Devanagari Kannada Gujarati English

उत्तर चरितमु
महासरस्वती ध्यानम्

घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसत् शीतांशु तुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगताम् आधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम्॥

॥ओम् तत् सत्॥
=============
सप्तमाध्यायः॥

ऋषिरुवाच॥

आज्ञप्तास्ते ततो दैत्याः चण्डमुण्द पुरोगमाः।
चतुरंगबलो पेता युयुरभ्युद्यतायुधाः॥1||

ददृशुस्ते ततो देवी मीषद्धासां व्यवस्थिताम्।
सिंहस्योपरि शैलेन्द्र शृंगे महति कांचने॥2||

ते दृष्ट्वा तां समादातुं उद्यमञ्चक्रुरुद्यतः।
आकृष्टचापासिधराः तथाऽन्ये तत्समीपगाः ॥3||

ततः कोपं चकारोच्चैः अम्बिका तानरीन्प्रति।
कोपेन चास्या वदनं मषीवर्णमभूत् तदा॥4||

भ्रुकुटीकुटिलात् तस्या ललाट फलकाद्द्रुतम्।
काळी कराळ वदना विनिष्क्रान्तासिपाशिनी॥5||

विचित्र खट्वांगधरा नरमालाविभूषणा।
द्वीपिचर्मपरीधाना शुष्कमांसाति भैरवा॥6||

अति विस्तार वदना जिह्वाललन भीषणा।
निमग्नारक्तनयना नादापूरित दिंग्मुखा॥7||

सा वेगेनाभि पतिता घातयन्ती महासुरान्।
सैन्ये तत्र सुरारीणा मभक्षयत तद्बलम्॥8||

पार्ष्णिग्राहां कुशग्राहि योधघण्टा समन्वितान्।
समादायैकहस्तेन मुखे चिक्षेप वारणान्॥9||

तथैव योधं तुरगै रथं सारथिना सह।
निक्षिप्य वक्त्रे दशनैः चर्वयंत्यतिभैरवम्॥10||

एकं जग्राह केशेषु ग्रीवायामथ चापरम्।
पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत्॥11||

तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः।
मुखेनजग्राह रुषा दशनैः मथितान्यपि ॥12||

बलिनां तद्बलं सर्वं असुराणां दुरात्मनाम्।
ममर्दाभक्षयच्चान्यान् अन्यांश्चाताडयत्तथा॥13||

असिना निहताः केचित् केचित् खत्वाङ्गताडिताः।
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा॥14||

क्षणेन तद्बलं सर्वं असुराणां निपातितम्।
दृष्ट्वा चण्डोऽभिदुद्राव तां काळीमतिभीषणाम्॥15||

शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः।
छादयामास चक्रैश्च मुण्दः क्षिप्तैः सहस्रशः॥16||

तानि चक्राण्यनेकानि विशमानानि तन्मुखम्।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम्॥17||

ततो जहासातिरुषा भीमं भैरवनादिनी।
काळी कराळवक्त्रान्तः दुर्दर्शदशनोज्ज्वला॥18||

उत्थाय च महासिंहं देवी चण्दमधावत।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥19||

अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितं ।
तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा॥20||

हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितं।
मुण्डं च सु महावीर्यं दिशो भेजे भयातुरम्॥21||

शिरश्चण्डस्य काळी च गृहीत्वा मुण्डमेवच।
प्राह प्रचण्डाट्टहास मिश्रमभ्येत्य चण्डिकाम्॥22||

मया तवात्रोपहृतौ चण्डमुण्डौ महापशू।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि॥23||

ऋषिरुवाच॥

तावानीतौ ततो दृष्ट्वा चण्दमुण्दौ महासुरौ।
उवाच काळीं कल्याणी ललितं चण्डिका वचः॥24||

यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता।
चामुण्डेति ततो लोके ख्याता देवि भविष्यसि॥25||

इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये चण्डमुण्द वथो नाम
सप्तमाध्यायः ॥

॥ ओम् तत् सत्॥
=====================================
updated 27 09 2022 1800